31 March, 2008

भगवद्‌गीता ७ वा अध्याय - व्याख्या

हे पार्थ ! पृथायाः कुंत्याः अपत्यं पुमान्‌ पार्थः तत्संबुद्धौ हे पार्थ ! हे कुंतीपुत्र ! त्वं योगं पूर्वोक्तं योगं युंजन्‌ सन्‌ युंजतीति युंजन्‌ मनःसमाधानं कुर्वन्‌ असंशयं न विद्यते संशयो यस्मिन्‌ कर्मणि यथा भवति तथा असंशयं गतसंदेह यथा स्यात्‌ तथा समग्रं विभूति बल ऐश्वर्यादि सहितं मां परमात्मानं यथा येन प्रकारेण ज्ञास्यसि ज्ञातुं एष्यसि तत्‌ मया वाच्यमानं श्रुणु । कथंभूतः त्वम्‌ । मयि अंतर्यामिणि आसक्तमनाः आसक्तं प्रेम्णा संलग्नं मनो यस्य सः । पुनः कथंभूतः त्वम्‌ । मदाश्रयः अहमेव आश्रयो यस्य सः मदाश्रयः ।। १ ।।

अहं अंतर्बहिः अंतः अंतर्यामी बहिः सारथिः ते तुभ्यं जिज्ञासवे सविज्ञानं विज्ञानेन अनुभवेन सहितं सविज्ञानं ज्ञानं ज्ञायते तत्‌ ज्ञानं साधनं इदं वक्ष्यमाणप्रकारेण अशेषतः साकल्येन वक्ष्यामि कथयिष्यामि । यत्‌ ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदांतजन्यमनोवृत्तिविषयीकृत्य इह विज्ञानानुभवे व्यवहारभूमौ भूयः पुनरपि अन्यत्‌ किंचिदपि ज्ञातव्यं ज्ञातुं योग्यं ज्ञातव्यं नावशिष्यते अवशिष्टं किंचित्‌ ज्ञातव्यं अस्ति इति कांक्षितं न भवति तन्मात्रज्ञानेनैव त्वं कृतार्थो भवुष्यसि ।। २ ।।


मनुष्यव्यतिरिक्तानां अनंतजीवानां श्रेयो ज्ञानमेव नास्ति । ज्ञानवतां मनुष्याणां ज्ञानमेव श्रेयः । अयं चिदानंदाभिप्रायः । मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां सहस्रेषु मध्ये कश्चित्‌ एकः पुरुषः अनेकजन्मसुकृतसमासादित नित्यानित्यवस्तुविवेकः सन्‌ सिद्धये सत्त्वशुद्धिद्वारा ज्ञानोत्पत्तये यतति प्रयत्नं करोति । यततामपि यततं प्रयत्‍नं कुर्वंति ते यतंतः तेषां यततां ज्ञानाय यतमानानां सिद्धाणां प्रागर्जितसुकृतानां साधकानामपि मध्ये कश्चित्‌ एकः श्रवणमनननिदिध्यासन परिपाकांते मां ईश्वरं तत्त्वतः अभेदेन वेत्ति साक्षात्करोति ।। ३ ।।


पंचतन्मात्राणि अहंकारः महान्‌ अव्यक्तं इति अष्टौ प्रकृतयः संति । पंचमहाभूतानि पंच ज्ञानेंद्रियाणि पंच कर्मेंद्रियाणि उभयसाधारणं मनश्च इति षोडशविकाराः उच्यंते । एतानि चतुर्विंशति तत्त्वानि । तत्र भूमिः पृथिवी आपः उदकानि अनलः तेजः वायुःप्रसिद्धः खं आकाशः इमानि पंचमहाभूतानि । गंधरूपरसस्पर्शशब्दात्मिकानि पंचतन्मात्राणि लक्ष्यंते । बुद्धि अहंकार शब्दौ स्वार्थौ । मनःशब्देन अव्याकृतं लक्ष्यते । अथवा मनः शब्देन स्वकारणं अहंकारः लक्ष्यते । पंचतन्मात्रसन्निकर्षात्‌ । बुद्धिशब्दः अहंकारकारणे महत्तत्त्वे मुख्य वृत्तिरेव । अहंकारशब्देन सर्ववासनावासितं अविद्यात्मकं अव्यक्तं लक्ष्यते । इति उक्तप्रकारेण इयं अपरोक्षाः प्रकृतिः मायाख्या पारमेश्वरी शक्तिः अनिर्वचनीयस्वभावा त्रिगुणात्मिका अष्टधा भिन्ना अष्टभिः प्रकारैः भेदं आगता । अस्यां प्रकृत्यां सर्वोपि जडवर्गः अंतर्भवति ।। ४ ।।


हे महाबाहो ! इयं प्रागुक्ता अष्टधा प्रकृतिः सर्वा चेतनवर्गरूपा अपरा निकृष्टा जडत्वात्‌ चेत्यपरं संसाररूपबंधत्वात्‌ कथिता । इतः अस्याः इति इतः अस्याः अचेतनवर्गरूपायाः क्षेत्रलक्षणायाः प्रकृतेः अन्यां विलक्षणां जीवभूतां जडमपि जगत्‌ जीवयति चेतनं करोतीति जीवभूतां तां जीवभूतां चेतनात्मिकां क्षेत्रज्ञलक्षणां मे मम परां आत्मभूतां विशुद्धां प्रकृतिं त्वं विद्धि जानिहि । यया क्षेत्रज्ञलक्षणया जीवभूतया अंतः अनुप्रविष्टया प्रकृत्या इदं अचेतनजातं जगत्‌ गच्छतीति जगत्‌ नामरूपात्मकं रज्जुसर्पवत्‌ स्वरूपविवर्त्तरूपं धार्यते अविद्यमानमपि स्वसत्तास्फुरणतया सच्चिद्‌रूपवत्‌ प्रदर्श्यते । अष्टधायाः विवर्तभूतायाः प्रकृतेः सकाशात्‌ अहं विलक्षणः इति मत्वा जीवन्मुक्तो भवतीति भावः ।। ५ ।।


त्वं एतद्योनीनि एते परापरे प्रकृती योनी कारण्र येषां तानि एतद्योनीनि सर्वाणि चेतनाचेतनात्मकानि निखिलानि भूतानि कार्यकारणरूपाणि इति अनेन प्रकारेण उपधारय अविस्मरणेन मनसि बुद्ध्यस्व । अहं परमेश्वरः सर्वज्ञः अनंतशक्तिमायोपाधिः परमात्मा कृत्स्नस्य चराचरात्मकस्य जगतः गच्छतीति जगत्‌ तस्य जगतः आगमापायिरूपस्य प्रपंचस्य प्रभवः प्रभवति यस्मादिति प्रभवः कर्यकारणरूपः तथा प्रलयः प्रकर्षेण सर्वं लीयते यस्मिन्निति प्रलयः विनाशकारणं अस्मि । स्वप्नतुल्यस्येव प्रपंचस्य मायिकस्य अहमेव उपादानं चेत्यपरं द्रष्टा अस्मि इति शेषः ।। ६ ।।


हे धनंजय ! धनं आत्मधनं जयतीति धनंजयः तत्संबुद्धौ हे धनंजय ! मत्तः सर्वज्ञात्‌ सर्वशक्तेः सर्वकारणात्‌ निमित्तोपादानात्‌ परमात्मानः सकाशात्‌ अन्यत्‌ विलक्षणं वस्तुभूतं किंचिदपि परमाणुमात्रमपि परतरं अतिशयेन परं इति परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतंत्रं कारणं नास्ति । स्व्प्नवत्‌ इदं सर्वं मायया दृश्यजातं मयि सर्वाधिष्ठाने सर्वकारणे परमात्मनि प्रोतं ग्रथितम्‌ । सूत्रे मणिगणाः । यथा सूत्राधारेण मणिगणाः वर्तते तथा इदं सर्वं मदाधारेण सद्‌रूपं भाति अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्नदृशि स्वप्नप्राप्तमणिगणा इव । कनके कुंडलादिवत्‌ इति योग्यो दृष्टांतः ।। ७ ।।


हे कौंतेय ! हे कुंतिपुत्र ! अप्सु उदकेषु अहं रसः अस्मि रसरूपे मयि अपः उदकानि प्रोताः ग्रथिताः उदकेषु अहं रसरूपः उपासकेन ध्येयः । शशिसूर्ययोः शशी च सूर्यश्च शशिसूर्यौ तयोः शशिसूर्ययोः निशाकरदिवाकरयोः प्रभा शीतोष्णप्रकाशिनी अहं अस्मि प्रभारूपे मयि शशिसूर्यौ प्रोतौ ग्रथितौ । सर्ववेदेषु सर्वे च ते वेदाश्च सर्ववेदाः तेषु प्रणवः ओंकारः अहं अस्मि प्रणवरूपे मयि सर्वे वेदाः प्रोताः । खे आकाशे शब्दः अहं अस्मि । शब्दरूपे मयि खः आकाशं प्रोतम्‌ । नृषु मनुजेषु पौरुषं पुरुषकारः उद्योगः अहं अस्मि । पुरुषकारोद्योगे मयि सर्वे मनुजाः प्रोताः ।। ८ ।।


किं च पृथिव्यां भूमौ पुण्यः सुरभिः अविकृतः गंधः पृथिवीमात्ररूपः अहं अस्मि । चेत्यपरम्‌ विभावसौ अग्नौ तेजः दहनपचन प्रकाशनादि सामर्थ्यं अहं अस्मि । चेत्यपरं सर्वभूतेषु सर्वाणि च तानि भूतानि च सर्वभूतानि तेषु सर्वभूतेषु स्थावरजंगमेषु जीवनं प्राणधारणं आयुः अहं अस्मि । तपस्विषु प्रशस्तं तपो येषां ते तपस्विनः तेषु तपस्विषु वानप्रस्थादिषु तपः शितोष्णक्षुत्पिपासादि द्वंद्वसहनसामर्थ्यरूपं अहं अस्मि । तद्‌रूपे मयि तवस्विनः प्रोताः ।। ९ ।।

किंच हे पार्थ ! पृथायाः कुंत्याः अपत्यं पुमान्‌ पार्थः तत्संबुद्धौ हे पार्थ ! त्वं सर्वभूतानां सर्वाणि च तानि भूतानि च सर्वभूतानि तेषां सर्वभूतानां स्थावरजंगमानां सनातनं नित्यं वीजांतरानपेक्षं वीजं सर्वबीजकारणं मां परमात्मानं विद्धि जानीहि । एकस्मिन्नेव मयि सर्वबीजे सर्वेषां प्रोतत्वमित्यर्थः । बुद्धिमतां बुद्धिविद्यते येषां ते बुद्धिमंतः तेषां बुद्धिः तत्त्वातत्त्वविवेकसामर्थ्यं अहं अस्मि । बुद्धिरूपे मयि बुद्धिमंतः प्रोताः ग्रथिताः । तया तेजस्विनां प्रशस्तं तेजो येषां ते तेजस्विनः तेषां तेजस्विनां प्रभावातिशयानां तेजः प्रभावातिशयः अहं अस्मि । तेजोरूपे मयि तेजस्विनः प्रोताः ।। १० ।।

किंच हे भरतर्षभ ! हे भरतश्रेष्ठ ! बलवतां बलं विद्यते येषां ते बलवंतः तेषां बलवतां सात्त्विकधर्मानुष्ठान सामर्थ्यवतां बलं सात्त्विकधर्मानुष्ठान सामर्थ्यं अहं अस्मि । कथंभूतं बलम्‌ । कामरागविवर्जितं कामः प्राप्तेषु अभिलाषः रागः प्राप्तेष्वपि भूयः अधिकसंपादनार्थं तृष्णा कामरागौ कामरागाभ्यां विवर्जितं रहितं कामरागविवर्जितं चेत्यपरं भूतेषु चतुरः वर्णान्‌ अभिलक्ष्य जातेषु धर्माविरुद्धः धर्मेण अविरुद्धः धर्माविरुद्धः स्वदारेषु पुत्रोत्पत्तिहेतुमात्रेण उपयोगी कामः विषयः अहं अस्मि । सर्व मयि प्रोतम्‌ ।। ११ ।।


किंच ये अन्य सात्विकाःशमदमादयः चेत्यपरं ये प्रसिद्धाः राजसाः रजसः रजोगुणस्य इमे राजसाः कामलोभादयः चेत्यपरं तामसाः तमसः तमोगुणस्य इमे तामसाः क्रोधमोहादयः भावाः अवस्थाविशेषाः प्राणिनां स्वकर्मवशात्‌ जायंते उत्पन्नाः भवंति । त्वं मत्तः एव अधिष्ठानभूतादेव जायमानान्‌ तान्‌ सात्त्विकादिभावान्‌ विद्धि जानीहि । तेषु सात्विकादिभावेषु अहं न वर्त्ते जीववत्‌ तदधीनो न भवामि । ते तु सात्त्विकादिभावास्तु मदधीनाः संतः मयि परमेश्वरे वर्तंते ।। १२ ।।

एभिः इदानीं उक्तैः त्रिभिः त्रिविधैः भावैः शमदम कामलोभक्रोधमोहादिभिः सर्वं संपूर्णं इदं प्रत्यक्षं जगत्‌ जंगमधर्मं ब्राहमणादिरूपं मोहितं सत्‌ स्वरूपं विस्मार्य अन्यथात्वं नीतं सत्‌ मां स्वात्मभूतं सर्वतः वर्तमानं नाभिजानाति स्वात्मानं न पश्यति । कथंभूतं माम्‌ । एभ्यः भावेभ्यः परं एभिर्भावैः अस्पृष्टं एतेषां भावानां नियंतारं अत एव अव्ययं न विद्यते व्ययो नाशः यस्य तत्‌ अव्ययं निर्विकारम्‌ । कथंभूतं भावैः । गुणमयैः गुणप्रचुराः गुणमयाः तैः गुणमयैः सत्त्वरजस्तमोगुणविकारैः ।। १३ ।।

दैवी देवस्य इयं दैवी देवस्य द्योतनात्मकस्य इयं एषा प्रत्यक्षा अन्यथा संतं आत्मानां अन्यथा प्रदर्शयंती मम विष्णोः माया मा यातीति माया मा निषेधं स्वरूपतिरस्कारं याति दर्शयतीति माया मदाश्रया त्रिभिः गुणमयैः भावैः सर्वं जगत्‌ मोहयति । हीति निश्चयेन । कथंभूता माया । गुणमयी गुणप्रचुरा गुणमयी सत्त्वादिगुणप्रचुरा । पुनः कथं भूता माया । दुरत्यया दुःखेन कष्टेन अत्येतुं अतिक्रमितुं अशक्या दुरत्यया । 'भगवदाश्रया माया ब्रह्मादिभिरपि अनतिक्रमणीया इति श्रुत्वा मादृशेन कथं कर्तव्यम्‌' इति व्याकुलितं अर्जुनं आलक्ष्य अवलोक्य सोपायं प्रोत्साहयति प्रकर्षेण उत्साहयति आनंदयति । मदीया माया ब्रह्मादीनामपि जेतुं अशक्या इति ज्ञात्वा तान्‌ विहाय ये अनेकजन्म सुकृतोपचयवंतः पुरुषाः मामेव सर्वांतर्यमिणं प्रपद्यंते भजंति आत्मत्वेन जानंति ते पुरुषाः एतां मदीयां मायां तरंति न तु अन्ये । अयं चिदानंदाभिप्रायः ।। १४ ।।

हे अर्जुन ! नराधमाः नरेषु मध्ये अधमाः नराधमाः इह लोके साधुभिः निंदिताः परत्र परलोके अनर्थसहस्रभाजः मां परमेश्वरं वासुदेवं न प्रपद्यंते न भजंति । 'अहो दौर्भाग्यं तेषाम्‌' - इत्याभिप्रायः । कथंभूताः नराधमाः । दुष्कृतिनः दुष्टं कृतं कृत्यं येषामस्ति ते दुष्कृतिनः पापेन सह नित्ययोगिनः पापकर्माणः । पुनः कथंभूताः नराधमाः । मूढाः इदं अर्थसाधनं इदं अनर्थसाधनं इति विवेकशून्याः । पुनः कथंभूताः नराधमाः । मायया शरीरेंद्रियसंघाततादात्म्यभ्रांतिरूपेण परिणतया मायया अपहृतज्ञानाः अपहृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्यं येषां ते अपहृतज्ञानाः । पुनः कथंभूताः । आसुरं असुषु इंद्रियेषु रमंत इति असुरां असुराणां विषयपराणां अयं आसुरः तं आसुरं भावं हिंसानृतादिस्वभावं आश्रिताः आसमंतात्‌ आश्रित्य स्थिताः आश्रिताः प्राप्ताः ।। १५ ।।

हे अर्जुन ! चतुर्विधाः चत्वारः विधाः प्रकाराः येषां ते चतुर्विधाः प्रकारचतुष्टयोपेताः सुकृतिनः पूर्वजन्मकृत पुण्यसंचयाः जनाः सफलजन्मानः मां परमेश्वरं नारायणं वासुदेवं भजंते सेवंते । तेषां चतुर्णां मध्ये त्रयः सकामाः एकः निष्कामः इत्येवं चतुर्विधाः आर्तः आर्त्या शत्रु व्याध्याद्यापदाग्रस्तः आर्तः तन्निवृत्तिं इच्छन्‌ । यथा मखभंगेन कुपिते इंद्रे वर्षति सति व्रजवासिजनः । यथा जरासंधकारागारवर्ती राजनिचयः । यथा द्यूतसभायां वस्त्राकर्षणे द्रौपदी चेत्यपरं ग्राहग्रस्तो गजेंद्रः । तथा जिज्ञासुः ज्ञातुमिच्छतीति जिज्ञासुः मुमुक्षुः आत्मज्ञानार्थी । यथा मुचुकुंदः यथा मैथिलः जनकः चेत्यपरं श्रुतदेवः चेत्यपरं निवृत्ते प्रवृत्ते मौसले उद्धवः । तथा अर्थार्थी अर्थस्य भोगस्य अर्थो यस्यास्तीति अर्थार्थी इह लोक परत्र परलोके भोगोपकरणं लिप्सुः । यथा इहलोके सुग्रीवः चेत्यपरं बिभीषणः च उपमन्युः परत्र परलोके ध्रुवः एते त्रयोपि भगवद्‌भजनेन मायां तरंति । एते त्रयः सकामाः व्याख्याताः । इदानीं चतुर्थः ज्ञानी निष्कामः उच्यते । ज्ञानी ज्ञानेन भगवत्तत्त्वसाक्षात्कारेण नित्ययुक्तः तीर्णमायः निवृत्तसर्वकामः । हे भरतर्षभः ! त्वमपि जिज्ञासु वा ज्ञानी वा कतमः अहं भक्तः इति मा शंकीष्ठाः । निष्कामभक्तः ज्ञानी यथा सनकादिः च नारदः च प्रल्हादः च पृथुः च शुकः । शुद्धप्रेमभक्ताः यथा गोपिकादयः च अकृरः च युधिष्ठिरः । कंसशिशुपालादयः भयात्‌ द्वेषात्‌ भगवद्‌गतिं प्राप्ताः । अयं मधुसूदनाभिप्रायः ।। १६ ।।

तेषां चतुर्विधानां भक्तानां मध्ये ज्ञानी तत्त्वज्ञानवान्‌ निवृत्तसर्वकामः विशिष्यते विशिष्टो भवति । सर्वोत्कृष्ट इत्यर्थः । कथंभूतः ज्ञानी । नित्ययुक्तः नित्ये आत्मस्वरूपे युक्तः सक्तः नित्ययुक्तः सर्वदा अप्रच्युतात्मस्वरूपः । पुनः कथंभूतः ज्ञानी । एकभक्तिः एकस्मिन्‌ भगवति भक्तिः अनुरक्तिर्यस्य सः एकभक्तिः अथवा एका असाधारणा भक्तिः भजनं यस्य सः तथोक्तः । हि यस्मात्कारणात्‌ अहं ज्ञानिनः ज्ञानयुक्तस्य अत्यर्थं अतिशयेन प्रियः निरुपाधिप्रेमास्पदं अस्मि चेत्यपरं सः ज्ञानी मम सर्वात्मनः परमेश्वरस्य प्रियः आत्मा प्रियोतिशयेन भवति ।। १७ ।।

एते सर्व आर्तादयः त्रयः उदाराः मदुपासकत्वेन श्रेष्ठाः महांतः मोक्षभाजश्च सन्ति । पूर्वजन्मार्जित अनेकसुकृतराशित्वात्‌ । अन्यथा हि मां न भजेयुः । किं तु ज्ञानी तु आत्मैव अहमेव अस्मि । हि इति निश्चयेन मे मम मतं निश्चयः अस्ति । सः ज्ञानी युक्तात्मा सन्‌ युक्तः मयि स्थितः आत्मा चित्तं यस्य सः तथोक्तः सन्‌ मामेव सर्वात्मानमेव गतिं गम्यते प्राप्यते इति गतिः तां गतिं सर्वागमैः प्रतिपादितां आस्थितः आसमंतात्‌ मामेव अधिष्ठाय स्थितः मद्‌रूपेण अवस्थितः । कथंभूतां गतिम्‌ । अनुत्तमां न विद्यते उत्तमा यस्याः सा अनुत्तमा तां अनुत्तमां सर्वोत्तमाम्‌ । १८ ।।

यः कश्चित्‌ पुरुषः बहूनां असंख्यानां जन्मनां सर्गाणां किंचित्पुण्योपचयहेतूनां अंते चरमे जन्मनि सर्वसुकृतविपाकरूपे ज्ञानवान्‌ सन्‌ ज्ञानं विद्यते यस्य सः तथोक्तः सन्‌ मां सर्वात्मकं निरुपाधिसर्वास्पदं प्रपद्यते सर्वात्मभावेन भजति । कथंभूतः यः । सर्वं वासुदेवः इति ज्ञानवान्‌ । इदं सर्वं 'यदयमात्मा' इति श्रुतेः । यत्‌ किंचित्‌ दृश्यते श्रूयते तत्सर्वं वासुदेवः सर्वाणि भूतानि वसंति यस्मिन्‌ सः वसुः तानि भूतानि स्वसत्तास्फुरणेन द्योतयति प्रकाशयति इति देवः । यद्वा दीव्यतीति देवः दीव्यति स्वस्वव्यवहारयोग्यानि करोतीति देवः वसुश्चासौ देवश्च वसुदेवः वसुदेव एव वासुदेवः । यद्वा देवकार्यार्थं वसुदेवात्‌ देवकीपतेः आविर्भूतः वासुदेवः निर्विशेषं ब्रह्म इति एवं प्रकारेण ज्ञानवान्‌ ज्ञानं विद्यते यस्य सः अतः हेतोः सः एवं विज्ञानपूर्वक मद्‌भक्तिमान्‌ महात्मा महान्‌ अत्यंत शुद्ध आत्मा अंतःकरणं यस्य सः महात्मा जीवन्मुक्तः सर्वोत्कृष्टः तत्समः अन्यो नास्ति अधिकस्तु नास्त्येव अतः हेतोः सुदुर्लभः सुतरां मनुष्याणां सहस्रेषु दुःखेनापि कष्टेनापि लब्धुं प्राप्तुं अशक्यः सुदुर्लभं जनानां प्रत्यक्षगोचरः न भवति ।। १९ ।।

ये पुरुषाः तैः तैः प्रसिद्धैः इहामुत्रभोगविशेषैः कामैः काम्यंत इति कामाः तैः कामैः स्रक्चंदनवनिताभिलाषैः पुत्रकीर्तिशत्रुजयादिविषयैः हृतज्ञानाः संतः हृतं अपहृतं ज्ञानं अंतःकरणं येषां ते हृतज्ञानाः गतविवेकाः अन्यदेवताः अन्याश्च ताः देवताश्च अन्यदेवताः वासुदेवातिरिक्तेंद्रादिदेवान्‌ प्रपद्यन्ते अत्यदरेण इंद्रादीन्‌ देवान्‌ सेवंते । किं कृत्वा । तं तं तत्तद्देवताराधने प्रसिद्धं नियमं जपोपवास प्रदक्षिणा नमस्कारादिरूपं आस्थाय आश्रित्य अवलंब्येत्यर्थः । कथंभूताः ये । स्वया स्वकीयया प्रकृत्या असाधारणया पूर्वाभ्यासवासनया नियताः वशीकृताः । ते पुरुषाः कथं मां भजंतीति तात्पर्यम्‌ ।। २० ।।

तेषां मध्ये यः यः कामी क्षुद्र फलेप्सुः भक्तः भजकः यां यां प्रसिद्धां तत्तत्फलप्राप्त्यर्थं भजनीयां तनुं मूर्तिं देवतां श्रद्धया जन्मांतरवासनाबलप्रादुर्भूतया भक्त्या संयुक्तः सन्‌ अर्चितुं पूजयितुं इच्छति इच्छां करोति तस्य तस्य कामिनः भक्तस्य अहं अंतर्यामी तामेव तत्तद्देवताविषयामेव पुउर्ववासनावशात्‌ प्राप्तां भक्तिं अचलां न चला अचला तां अचलां स्थिरां श्रद्धां विदधामि करोमि । न तु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः ।। २१ ।।

सः देवताभक्तः कामी तया मद्दत्तया श्रद्धया स्थिरया भक्त्या युक्तः सन्‌ संयुक्तः सन्‌ तस्याः देवतायाः आराधनं पूजनं ईहते करोति उपसर्गरहितः सन्‌ आराधयति चेत्यपरं ततः देवतायाः सकाशात्‌ कामान्‌ ईप्सितमनोरथान्‌ लभते प्राप्नोति । कथंभूतान्‌ कामान्‌ । मयैव सर्वज्ञेन सर्वकर्मफलदायिना तत्तद्देवतांतर्यामिणा विहितान्‌ तत्तत्फलविपाकसमये निर्मितान्‌ । पुनः कथंभूतान्‌ कामान्‌ । हितान्‌ मनःप्रियान्‌ इत्यर्थः ।। २२ ।।


तेषां देवतान्तरोपासकानां जनानां तत्तद्देवताराधनजं फलं तु अंतवत्‌ अंतः विनाशः विद्यते यस्य

तत्‌ अंतवत्‌ भवति । यथा मद्‌भक्तानां विवेकिनां अनंतं फलं भवति तथा तेषां न भवति । कथंभूतानां तेषाम्‌ । अल्पमेधसां अल्पे क्षुद्रे तुच्छे विनाशशीले फले मेधा बुद्धिः येषाः ते अप्लमेधसः तेषां अल्पमेधसां अल्पफलाभिलाषिणां देवयजः देवान्‌ इंद्रादीन्‌ यजंति ते देवयजः मदन्यदेवताराधनपराः देवान्‌ स्वर्गस्थान्‌ इंद्रादीन्‌ यांति स्वर्गं गत्वा देवैः दत्तान्‌ कर्मफलभोगान्‌ प्राप्नुवंति । मद्‌भक्ता अपि मामेव अधनं ईश्वरमेव भजंति ते मद्‌भक्ताः ममोपासकाः मां अक्षयं शश्वदेकरूपं यांति प्राप्नुवंति । मद्‌भक्तानां देत्यपरं अन्यदेवताभक्तानां महदंतरमिति भावः ।। २३ ।।

अप्लबुद्धयः अल्पा विवेकशून्याः बुद्धिर्येषां ते अल्पबुद्धयः दृश्याभिनिविष्टमतयः अव्यक्तं न व्यक्तः अव्यक्तः तं अव्यक्तं प्रपंचातीतं व्यक्तिरहितं सर्वकारणं मां परमेश्वरं सर्वांतर्यामिणं व्यक्तिं कार्यरूपतां आपन्नं मत्स्यकूर्मरामकृष्णाद्यवतारेण कंचित्‌ जीवं मन्यंते । कथंभूताः अल्पबुद्धयः । मम सर्वांर्यामिणः परं सर्वकारणरूपं भावं स्वरूपं अजानंतः जानंति ते जानंतः न जानंतः अजानंतः । कथंभूतं भावम्‌ । अव्ययं न विद्यते व्ययो नाशः हस्य सः अव्ययः तं अव्ययं नित्यम्‌ । पुनः कथंभूतं भावम्‌ । अनुत्तमं न विद्यते उत्तमं यस्मात्सः अनुत्तमः तं अनुत्तमं साक्षिचैतन्यः आविर्भावतिरोभावरहितम्‌ ।। २४ ।।

अहं सर्वाधिष्ठानभूतः परमात्मा सर्वस्य बहिर्दृष्टेः लोकस्य प्रकाशः स्वेन रूपेण प्रकटः न भवामि किं तु केषांचित्‌ भक्तानां प्रकटो भवामीत्यभिप्रायः । कथंभूतः अहम्‌ । योगमायासमावृतः योगस्य मम संकल्पस्य वशवर्तिनी माया योगमाया योगमायया अयं अभक्तः जनः मां स्वरूपेण न जानातु इति संकल्पानिविधायिन्या मायया समावृतः स्म्यक्‌ आवृतः अयं चतुर्विधभक्तलक्षणः लोकः मूढः सन्‌ विपरीतदृष्ट्या मां मनुषमेव मन्यते । कथंभूतं माम्‌ । अजं जन्ममरणशून्यम्‌ । पुनः कथंभूतम्‌ । अव्ययं नाशशून्यम्‌ कथंभूतः लोकः । योगमायासमावृतः योगय्स्य अघटितघटनापटोः मम परमेश्वरस्य माया योगमाया योगमायया समावृतः आच्छादितः अत एव योगमायामोहितत्वात्‌ अयं लोकः मूढः मूर्खः भूत्वा मां अजं अव्ययं स्वात्मभूतं न जानाति ।। २५ ।।

हे अर्जुन ! अहं चिदात्मा सर्वज्ञः समतीतानि अतिक्रांतानि चेत्यपरं वर्तमानानि विद्यमानानि चेत्यपरं भविष्याणि आगामिनि काले जनिष्यमाणानि एवं कालत्रयवर्तीनि भूतानि स्थावरजंगमानि सर्वाणि वेद जानामि । इत्यत्र संशयो नास्तीत्यर्थः । मन्मायया मोहितः कश्चन कोपि मां तु सर्वदर्शिनं तु मदनुग्रहभाजनं मद्भक्तं विना न वेद न जानाति । मन्मायामोहितत्वात्‌ । अतः हेतोः मत्तत्त्ववेदनाभादेव प्रायेण प्राणिनः मां न भजंते इत्याभिप्रायः ।। २६ ।।

हे भारत ! हे भरतवंशोद्‌भव ! सर्गे सृज्यत इति सर्गः तस्मिन्‌ सर्गे मातुः सकाशात्‌ स्थूलदेहोत्पत्तिरूपसर्गे सर्वभूतानि सर्वाणि च तानि भूतानि च सर्वभूतानि सर्वे प्राणिनः तदानीमेव प्राप्तेन द्वंद्वमोहेन द्वंद्वयोः सुखदुःखयोः अथवा शीतोष्णयोः लाभालाभयोः मोहः अभिनिवेशः द्वंद्वमोहः तेन द्वंद्वमोहेन अहं सुखी अहं दुःखी इत्यादिविपर्यासेन सुखदुःखाद्यभिनिवेशेन संमोहं स्वात्मानं विस्मृत्य अन्यथा देहोहमित्यादिभावं यांति प्राप्नुवंति । कथंभूतेन द्वंद्वमोहेन । इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ इच्छादेवेषाभ्यां अनुकूल प्रतिकूल विषयाभ्यां समुत्था समुत्पत्तिः यस्य सः इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । सर्वाणि भूतानि मातृतो जन्मावसरे गर्भजातं ज्ञानं विस्मृत्य अन्यथाभावजनकं मोहं यांतीति भावः । हे परंतप ! परं मोहरूपं शत्रुं तापयतीति परंतपः तत्संबुद्धौ हे परंतप ! सर्वज्ञः परमात्मा आशीर्वचनेन स्वाभिप्रेतज्ञाने अर्जुनं अधिकारिणं करोति इति गम्यते । अयं चिदानंदाभिप्रायः ।। २७ ।।

येषां तु इतरलोकविलक्षणानां तु पुण्यकर्मणां पुण्यरूपाणि कर्माणि येषां ते पुण्यकर्माणः तेषां पुण्यकर्मणां अनेकजन्मसु पुण्याचरणशीलानां मदुद्देशेन नित्यनैमित्तिक कर्मानुष्ठानवतां प्रसिद्धानां जनानां जननधर्मिणां सफलजन्मनां तैः तैः पुण्यकर्मभिः पापं ज्ञानप्रतिबंधकं पापं अंतगतं नाशं प्राप्तं । अस्तीति शेषः । ते पुण्यकर्माणः द्वंद्वमोहनिर्मुक्ताः संतः द्वंद्वयोः सुखदुःखयोः मोहं द्वंद्वमोहः द्वंद्वमोहेन रागद्वेषादि निबंधन विपर्यासेन निर्मुक्ताः रहिताः द्वंद्वमोहनिर्मुक्ताः मां परमात्मानं भजंते वासुदेवः सर्वमिति ज्ञात्वा सप्रेमज्ञानसंपत्तिं कुर्वंति । कथंभूताः ते । दृढव्रताः दृढं व्रतं नियमः येषां ते दृढव्रताः अचलसंकल्पाः ।। २८ ।।

ये पुण्यकर्मानुष्ठानेन शुद्धसत्त्वानुभवो भयलोकवितृष्णाः किं च संसारदुःखात्‌ निर्विण्णाः जरामरण मोक्षाय जन्म रातीति जरा यद्वा जायते ऽसौ जः जं जीवभावं रातीति जरा अथवा प्रसिद्धैव अस्तु मरणं विनाशः जन्म विना मरणं नास्तीति प्रसिद्धम्‌‌ । जरा च मरणं च जरामरणे जरामरणाभ्यां मोक्षः तत्संबंधराहित्यं जरामरणमोक्षः तस्मै जरामरणमोक्षाय तदर्थं मां परमात्मानं आश्रित्य सोहं इत्यंगीकृत्य यतंति परमात्मनः साक्षात्काराय प्रयत्‍नं कुर्वंति । मदर्पितानि फलाभिसंधिशून्यानि विहितानि कर्माणि कुर्वंतीति भावः । ते पुरुषाः क्रमेण शुद्धांतःकरणाः संतः तत्‌ जगत्कारणमायाधिष्ठानं ब्रह्म परं शुद्ध निर्गुणं तत्पदलक्ष्यं मां विदुः जानंति । तथा अध्यात्मं आत्मानं शरीरं अधिकृत्य प्रकाशमानं कृत्स्नं उपाध्यपरिच्छिन्नं त्वंपदलक्ष्यं विदुः । चेत्यपरं कर्म तदुभयवेदनसाधन गुरूपसदन श्रवणमननादि अखिलं निरवशेषं फलाव्यभिचारि असिपदं विदुः जानंति इत्यर्थः ।। २९ ।।

ये पुण्यकर्मानुष्ठानेन शुद्ध सत्त्वानुभवाः युक्तचेतसः संतः युक्तं मदेकनिष्ठं चेतो अंतःकरणं येषां ते युक्तचेतसः अनुलक्ष्येण उत्पन्नसाक्षात्काराः संतः साधिभूताधिदैवं अधिभूतं च अधिदैवं च अधिभूताधिदैवे अधिभूताधिदैवाभ्यां सह वर्त्तत इति साधिभूताधिदैवः तं चेत्यपरं साधियज्ञं अधियज्ञेन सह वर्त्तत इति साधियज्ञः तं साधियज्ञं अधिभूतादि शब्दानां अर्थं भगवानेव अंतराध्याये व्याख्यास्यति । मां परमात्मानं विदुः चिंतयंति जानंतीत्यर्थः । ते पुरुषाः युक्तचेतसः संतः सर्वदा मयि समाहितचेतसः संतः प्रयाणकाले प्राणोत्क्रमणकाले इंद्रियग्रामस्य अत्यंतव्यग्रतायामपि अयत्‍नेन एव मत्कृपया मां सर्वात्मानं विदुः जानंति । तेषां मृतिकालेपि मदाकारैव चित्तवृत्तिः पूर्वोपचितसंस्कारपाटवात्‌ भवति ।। तथा च ते मद्‍भक्तियोगात्‌ कृतार्था एवेति भावः ।। इति सप्तमोऽध्यायः ।।

No comments: